516 निर्विकल्पविषयविकल्पः

मूलम्

निर्विकल्पस्य विशयं बौद्धाः प्राहुस्स्वलक्षणम्। महासामान्यमस्येति सदद्वैतविदो विदुः॥

मूलम्

वाग्रूपमपरे तत्त्वं प्रमेयं शाब्दिका विदुः। केचिद्गुणादिशबलं मन्यन्ते कपिलादयः॥

मूलम्

केचिच्छकलितं वस्तु विदुः नैयायिकादयः। विशिष्टमेव विषयं प्राहुः प्राभाकरादयः॥

मूलम्

प्रत्यक्षविषयेऽप्येता चित्रा विप्रतिपत्तयः। परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति॥

मूलम्

प्रत्यक्षे हि समुत्पन्ना विमतिः केन वार्यते। इदं भाति न भातीति संविद्विप्रतिपत्तिषु॥

मूलम्

परप्रत्ययने पुंसां शरणं शपथोक्तयः। प्रत्यक्षलक्षणं चापि तादृशार्थानुगुण्यतः॥