मूलम्
न कदाचित्क्वचिद्दृष्टं निर्व्यापारं तु कारकम्। इन्द्रियाणां कारकत्वात्सन्निकर्षपरिग्रहः॥
मूलम्
तत्र षोढा सन्निकर्षः लौकिकः परिकीर्तितः। ज्ञानसामान्ययोगोत्थभेदेनालौकिकस्त्रिधा॥
मूलम्
तत्प्रत्यक्षं द्वित्रिचतुस्सन्निकर्षात्प्रवर्तते। तत्रात्मसुखरूपादिविषयास्स्युर्यथाक्रमम्॥
मूलम्
आत्मचित्तेन्द्रियार्थाः स्युः सन्निकर्षस्य चाश्रयाः। इति नैयायिकाः प्राहुः अत्र मीमांसकाः पुनः॥
मूलम्
चतुर्विधः संप्रयोगः द्रव्ये संयोगलक्षणः। गुणे संयुक्ततादात्म्यं गुणत्वे तद्वदात्मता॥
टीका
मानमेयोदयः.[ ]
मूलम्
गुणत्वगतसत्तायां तद्वत्तादात्म्यलक्षणः। श्रोत्रेण शब्दग्रहणमजसंयोगजं विदुः॥
मूलम्
त्रिविधस्संनिकर्षः स्यादिति प्राभाकरा विदुः। संयोगस्स्युक्तसमवायश्च तदनन्तरः॥
टीका
प्रक.[5 प्र]
मूलम्
समवायस्तृतीयस्स्यात् तैर्हि स्यात्सर्वसंग्रहः। अलौकिकः लन्निकर्षः न मीमांसकसम्मतः॥
मूलम्
यच्चालौकिकविज्ञानं स्मरणं वाऽथ लैङ्गिकम्॥ योगस्यानुपगन्तृत्वात् योगी नैवास्ति तन्मते॥
मूलम्
सर्वज्ञानामभावेन धर्मो वेदैकलक्षणः। आभिमुख्यं सन्निकर्ष इति संयोगदूषकाः॥
मूलम्
यथाकथंचित्संबन्धं विदुस्सर्वेऽपि वादिनः। निर्विकल्पस्य विषयविकल्पस्याथ संग्रहः॥