514 सारांशनिष्कर्षः

मूलम्

परोक्षाणां प्रमाणानां संसर्गांशे प्रमाणता। प्रत्यक्षस्य प्रमाणस्य त्रिष्वप्यस्ति प्रमाणता॥

मूलम्

कालदेशपरिच्छिन्नं प्रत्यक्षमितरत्पुनः। सार्वदेशं सार्वकालं प्रत्यक्षमितरत्पुनः॥

मूलम्

शब्दसंसर्गयोगार्थप्रत्भासाः विकल्पनाः। स्मृतिव्यवहिताः तस्मानर्थजन्ता मताः॥

टीका

न्यायबिन्दुटीका.[ ]

मूलम्

इत्येवं कल्पनावादिविशेषैकार्थवादिनः। विबुधाः प्रत्यवस्थातुं नानावादान्वितन्वते॥

मूलम्

शब्दासंस्पर्शवादापनोदायैव हि शाब्दिकाः। शब्दस्य ज्ञानमात्रे तु भानमिच्छन्त्यनेकधा॥

मूलम्

यथा विषयभेदेन प्रतीतीर्भिद्यते तथा। उपायभेदात्तद्भेदः सर्वानुभवसाक्षिकः॥

मूलम्

समवायो हि नाध्यक्षः वेषेषिकमते स्थितः। तथापि तन्तुष्वेवायं पट इत्यादिबुद्धिकृत्॥

मूलम्

तथैव च चिरक्षिप्रदूरासन्नादिबुद्धिकृत्। कालदेशविशेषः स्यात् सहकारिनियन्त्रितः॥

मूलम्

निर्विकल्पकमध्यक्षं सविकल्पकमेव तत्। उभयात्मकमित्येतत् विलक्षणमितीतरे॥

मूलम्

सौगतः प्रथमः पक्षः शाब्दिकस्तगनन्तरः। मैमांसकः तृतीयः स्यात् तुर्यो नैयायिकस्स्मृत॥

मूलम्

सामग्र्यास्तु प्रमाणत्वे प्रमा फलमितीष्यते। प्रमायास्तु प्रमाणत्वे फलं हानादिबुद्धयः॥

मूलम्

प्रमाणसामान्यवादे विस्तरोऽस्य कृतोऽधुना। विशेषांशा हि सूच्यन्ते विस्तरः तैर्थिकैः कृतः॥