मूलम्
प्रभाकरगुरूणां तु विशेषोऽत्रावधार्यताम्। पूर्वानुभूतसंस्कारसचिवं सविकल्पकम्॥
टीका
वे. सं.[49]
मूलम्
केवलेन्द्रियसंसर्गजनितं निर्विकल्पकम्। यदैकमेव वस्तु स्यात् प्रत्यभिज्ञेति सोच्यते॥
मूलम्
सजातीयं यदा तत्स्यात्सविकल्पकमुच्यते। तन्निर्विकल्पं प्रथमपिण्डग्रहणमुच्यते॥
मूलम्
सविकल्पं द्वितीयादिग्रहणं त्विति निर्णयः। अनुवृत्तिर्नाम जातेर्नानाव्यक्तिसमन्वयः॥
मूलम्
तदतद्गतोचरत्वाभ्यां विकल्पोऽस्तित्वनास्तिते। निरीहादिस्वन इव निर्विकल्पस्वनो मतः॥
मूलम्
योगेऽपि निर्विकल्याख्यसमाधिर्योऽनुशिष्यते। अर्थमात्रविनिर्भासं स्वरूपविकलं यथा॥
मूलम्
तत्रापि निर्विशेषर्थग्रहणं नोपदिश्यते। किंतु गीर्णस्वस्वरूपा विशिष्टार्थैव सा मतिः॥