512 कुमारिलाभिप्रायः

मूलम्

तेनेन्द्रियार्थसंबन्धे विद्यमाने स्मरन्नपि। विकल्पयन् स्वधर्मेण वस्तु प्रत्यक्षवान्नरः॥

मूलम्

नहि प्रविष्टमात्राणामुष्णाद्गर्भगृहादिषु। अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः॥

मूलम्

यथा त्वाभासमात्रेण पूर्वं ज्ञात्वा स्वरूपतः। पश्चात्तत्रावबुध्यन्ते तथा जात्यादिधर्मतः॥

मूलम्

यदि त्वालोच्य संमील्य नेत्रे कश्चिद्विकल्पयेत्। न स्यात्प्रत्यक्षता तस्य संबन्धाननुसारतः॥

मूलम्

वृद्धप्रयोगगम्याश्च शब्दार्थास्सर्व एव नः। तेन यत्र प्रयुक्तोऽयं न तस्मादपनीयते॥

मूलम्

सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः। न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम्॥

मूलम्

संबद्धं वर्तमानं च गृह्यते चक्षुरादिना। सामान्यं वा विशेषो वा ग्रह्यं नात्र विवक्ष्यते॥

मूलम्

न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते। प्राक्शब्दाद्यादृशी बुद्धिः शब्दादपि हि तादृशी॥

मूलम्

जात्याद्यर्थान्तरं तस्मात्तद्रूपेष्वेव वस्तुषु। विकल्प्य जायते बुद्धिरित्याद्यत्रैव विस्तरः॥

मूलम्

न सोऽस्ति प्रत्ययो लोके यः कालानुगमादृते। अनुविद्धमिव ज्ञानं सर्वं कालेन जायते॥

मूलम्

न सोऽस्ति प्रत्ययो लोके यो देशानुगमादृते। अनुविद्धमिव ज्ञानं सर्वं देशेन जायते॥

मूलम्

न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते। अनुविद्धमिव ज्ञानं सर्वं शब्देन जायते॥

मूलम्

न सोऽस्ति प्रत्ययो लोके यस्सत्त्वानुगमादृते। अनुविद्धमिव ज्ञानं सर्वं सत्त्वेन गृह्यते॥

मूलम्

चतुर्षु चैषु न्यायेषु द्वयं मीमांसकैर्मतम्। अतः कालश्च देशश्च सकलेन्द्रियगोचरः॥

मूलम्

तृतीयस्तु पुनः प्रायो वैयाकरणसम्मतः। निर्विकल्पकविज्ञानस्थापनाय स खण्ड्यते॥

मूलम्

तुरीयस्तु सदद्वैतवादिसिद्धान्तसंमतः। निर्विशेषपरब्रह्मापरोक्षत्वाय संश्रितः ॥