510 मीमांसकादिसिद्धान्तः

मूलम्

अथ कौमारिलादीनामेष तादात्म्यवादिनाम्। सांख्यादीनां च सिद्धान्ते विभागोऽत्र निरूप्यते॥

मूलम्

अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम्। बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्॥

टीका

त. कौ.[27 का]

मूलम्

संमुग्धं वस्तुमात्रं तु प्राग्गृह्णन्त्यविकल्पितम्। तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः॥

मूलम्

सामान्यं तु विशेषश्च स्वरूपेणावगम्यते। नच व्यावृत्त्यनुगतिरूपेणेति विनिर्णयः॥

मूलम्

ततःपरं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया। बुद्ध्याऽवसीयते साऽपि प्रत्यक्षत्वेन संमता॥

मूलम्

जातिव्यक्तयोरभेदेन ग्रहः प्राथमिके ग्रहे। भेदाभेदस्ततस्सिद्धः स च तादात्म्यलक्षणः॥

मूलम्

तस्माद्यतोयतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः। जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः॥

टीका

न्या. र.[578]