509 नैयायिकसिद्धान्तः

मूलम्

अथ तार्किकसिद्धान्ते तत्स्वरूपपरिष्कृतिः। विशेष्यत्वप्रकारत्वसंसर्गत्वाभिधैः त्रिभिः॥

मूलम्

विषयत्वैर्निरूप्यं यत्तदेव सविकल्पकम्। विशिष्टविषयं ज्ञानं सविकल्पकमुच्यते॥

मूलम्

विशेषणं विकल्पश्च प्रकारश्च समार्थकाः। निर्विकल्पकशब्दोऽतो निर्विशेषार्थवाचकः॥

मूलम्

तुरीया या विषयता तस्या यत्स्यान्निरूपकम्। तन्निर्विकल्पकं ह्युक्तं अविशिष्टार्थगोचरम्॥

मूलम्

व्यवसायात्मकाध्यक्षवादिनो न्यायवेदिनः। यः कल्पनाध्यक्षवादः स तु सौगतसम्मतः॥

टीका

न्या. सू.[1-1-4]

मूलम्

तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः। स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः॥

मूलम्

क्वचिज्जातिः क्ववचिद्द्रव्यं क्वचित्कर्म क्वचिद्गुणः। यदेव सविकल्पेन निर्विकल्पेम तत्पुरा॥

मूलम्

गृह्यते नियमेनैवं क्वचिद्दोषाद्भ्रमोदयः। तिमिराशुभ्रमणनौयानक्षोभादिसंभवम्॥

मूलम्

द्विमृगाङ्कालतचक्रचलद्वृक्षादिदर्शनम्। जात्याखण्डोपाधिभिन्नं किंचिद्रूपेण भासते॥

मूलम्

स्वरूपतश्च जात्यादिः प्रकारत्वेन भासते। जातिः द्रव्यत्वादिरूपाऽभावात्वादिरनन्तरः॥

मूलम्

अतीन्द्रियं न्र्विकल्पमनुमानेन गृह्यते। विशेषणज्ञानपूर्वा प्रसिद्धा हि विशिष्टधीः॥

मूलम्

न प्रमा न भ्रमश्चेदमित्यप्यस्ति विनिर्णयः। प्रकारतादिशन्यं तत् संबन्धानवगाहि च॥

टीका

सि. मु.[135 का]

मूलम्

संबद्धं वर्तमानं च गृह्यते चक्षुरादिना। चक्षुराद्यत्कविषयं परतन्त्रं बहिर्मनः॥

टीका

वि. वि.[114]

मूलम्

इति मण्डनमिश्रीयं वाक्यं विधिविवेकगाम्। अत्कशब्दोऽन्तिकपरः संप्रयोगस्सतस्ततः॥

मूलम्

अत्के चेन्मधु विन्देत किमर्थ यत्नमाचरेत्। इति शाबरवाक्येऽपि तच्छब्दः तादृशार्थकः॥