मूलम्
तत्प्रत्यक्षं निर्विकल्पकं सविकल्पमिति द्विधा। अलौकिकं स्मृतिर्वाऽनुमानं वा वेदविन्मतम्॥
मूलम्
मनसा युज्यते ह्यात्माऽथेन्द्रियेण मनस्तथा। अर्थेन चेन्द्रियं तस्मात्प्रत्यक्षं न्यायविन्मतम्॥
मूलम्
सामान्यं वा विशेषो वा किंस्यात्प्रत्यक्षगोचरः। इत्यत्रापि विकल्पोऽस्ति प्रसङ्गात्किंचिदुच्यते॥
मूलम्
विशेषमात्रविषयं निर्विक्पकमेव तत्। प्रत्यक्षमिति ते प्राहुः ये वैभाषिकसौगताः॥
मूलम्
सामान्यविषयं यत्स्यात् तत्परोक्षमितीर्यते। अतः प्रमाणद्वितयं प्रमेयमपि च द्विधा॥
मूलम्
स विशेषो निर्विकल्पविषयः यत्स्वलक्षणम्। स्वतः स्वभिन्नात्सर्वस्माद्व्यावृत्तं हि स्वलक्षणम्॥
मूलम्
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम्। कोऽन्यो न दृष्टो भागस्स्यात् यः प्रमाणैः परीक्ष्यते॥
टीका
न्या. र.[590]
मूलम्
यद्यप्यपोहनिर्मुक्ते न वृत्तिश्शब्दलिङ्गयोः। युक्ता तथाऽपि बुद्धिस्तु ज्ञातुः वस्त्ववलम्बते॥
टीका
न्या. र.[592]
मूलम्
अनादिवासनादोषात् व्यवहारव्यवस्थितिः। परीक्षकपरीक्षायामपोहे पर्यवस्यति॥
मूलम्
सामान्यमात्रविषयं प्राहुस्सन्मात्रवादिनः। महासामान्यमेतत्तु द्रव्यं ब्रह्मेति कीर्त्यते॥
टीका
श्लोक.[169]
मूलम्
सविकल्पकमेवैकं प्रत्यक्षं न द्विधा मतम्। शब्दानुवेधात्सर्वत्र तादृशं हीति शाब्दिकाः॥
मूलम्
न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते। अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते॥
टीका
वा. प.[1-124]