507 विभागः

मूलम्

प्रत्यक्षमेवानुभव इति लौकायतं मतम्। परोक्षमनुमित्यादिज्ञानं स्मृतिसमुच्चयः॥

मूलम्

अनुमानं स्मृतिः प्रत्युत्पन्नकारणंसंभवा। इति प्राभाकराः प्राहुरित्यपि ज्ञायते क्वचित्॥

टीका

प्रक.[5 प्र.]

मूलम्

परोक्षमेव विज्ञानं तद्धि स्यादानुमानिकम्। प्रत्यक्षमेव नास्तीति सौत्रान्तिकमुखा विदुः॥

टीका

न्या. सू.[2-1-28]

मूलम्

प्रत्यक्षं च परोक्षं चानुभवद्वितयं परे। वैभाषिकं मतं त्वेतद्वैशेषिकमपि स्मृतम्॥

मूलम्

प्रत्यक्षं च परोक्षं चापरोक्षमिति च त्रिधा। मानं विभज्य स्वात्मानमपरोक्षं विदुः परे॥

टीका

न्या. म.[432]

मूलम्

कल्पनापोढमभ्रान्तं प्रत्यक्षं तच्चतुर्विधम्। आद्यमिन्द्रियजं तादृङ्मनोजातं द्वितीयकम्॥

टीका

न्या. र.[176]

मूलम्

इन्द्रियोत्थं निर्विकल्पं मन इत्युच्यते हि तैः। अनन्तरप्रत्ययोऽपि संपूर्वस्य हि कथ्यते॥

मूलम्

आत्मसंवेदनं चित्तचैत्तानां स्यात्तृतीयकम्। भावनाबलजं योगिज्ञानं तुर्यं प्रकीर्तितम्॥

मूलम्

इति वैभाषिकैकान्तः न्यायबिन्द्वादिषु स्थितः। बाह्यामाभ्यन्तरं चेति द्विधा तदिति तार्किकाः॥

मूलम्

लौकिकं चालौकिकमित्युभयं द्विविधं मतम्। लौकिकं षड्विधं ज्ञेयं त्रिविधं स्यादलौकिकम्॥