506 प्रत्यक्षशब्दार्थः

मूलम्

अथ प्रमाणभेदानां विचारोऽत्र प्रवर्तते । प्रत्यक्षस्य च तत्रादौ विकल्पः प्रविभज्यते ॥

मूलम्

अक्षं प्रतिगतं यत्र सा धीः प्रत्यक्षमुच्यते । तां हि चक्षुः जनकतासंबन्धेनानुगच्छति ॥

टीका

न्या. म.[92]

मूलम्

विषयेऽपि प्रतिगतमक्षं तेनेत्थमुच्यते। प्रत्यक्षः पुरुषः योषा प्रत्यक्षेति बुधैरिह॥

मूलम्

इन्द्रिये संनिकर्षे वा तत्संबन्धात्प्रयुज्यते। न च युक्तोऽव्ययीभाव इत्याह न्यायमञ्जरी॥