मूलम्
बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निस्स्वभावाश्च दर्शिताः ॥
मूलम्
इति पद्यं गौतमेन न्यायसूत्रे निराकृतम् । प्रमाणतोऽर्थोपलब्धेरिति, तद्भाष्यसंग्रहः ॥
टीका
न्या. सू.[4-2-29]
मूलम्
बुद्ध्या विवेचनादेव भावयाथात्म्यनिर्णयः । यदस्ति च यथा चेति यन्नास्ति च यथा च वा ॥
मूलम्
सर्वं प्रमाणबलतः उपलब्ध्यैव सिद्ध्यति । प्रमाणतो योपलब्धिः सा स्याद्बुद्ध्या विवेचनम् ॥
मूलम्
तेनैव सर्वशास्त्राणि सर्वकर्मणि देहिनाम् । सर्वे च व्यवहारास्स्युर्व्याप्तास्तत्सर्वसाक्षिकम् ॥
मूलम्
परीक्षमाणो भावांसितु विद्वान् बुद्ध्याऽध्यवस्यति । इदमस्ति तथा चेदं नास्तीति निरुपद्रवम् ॥
मूलम्
सर्वभावास्सस्वभावास्सवभिलप्या इति स्थितम् । एवं क्रमेण प्रायेण सौगताः प्रत्यवस्थिताः ॥