मूलम्
अत्र केचित् क्षणाविदः सत्त्वाख्यं साधनं पुनः। नित्यतत्त्वोपदेशेन भवेदागमबाधितम्॥
टीका
न्या. सि.[1 परि.]
मूलम्
तच्च शून्यं तत्त्वमिति मत्वा हेत्वन्तरं विदुः। तदेतद्ध्रुवभावित्वं धवंसस्य प्राङ्निरूपितम्॥
मूलम्
ततश्च सर्वभावानां क्षणिकत्वं व्यवस्थितम्। तदेतद्ध्रुवभावित्वं विकल्पासहमित्यपि॥
मूलम्
न्यायसिद्धाञ्जनग्रन्थे विस्तरेण निरूपितम्। इति ज्ञानप्रसङ्गेन क्षणभङ्गो निरूपितः॥
मूलम्
अमिर्वाच्यमनित्यं च क्षमिकं चेति भेदतः। विदुः प्रपञ्चं विबुधाः तथाऽन्येऽप्यन्यथा विदुः॥
मूलम्
सर्वे ते प्रतिषेद्धारः स्थिरतां रागकारिणीम्। व्यतिरेकदृशां सर्वमेकस्मिन् पर्यवस्यति॥
टीका
तन्त्र.[81]