मूलम्
सद्यो जातस्य हि शिशोः मुखोल्लासादिहेतुभिः। हर्षशोकादियोगश्च भवतीत्यनुमीयते॥
मूलम्
तस्मान्मुखविकासादेः हर्षादिः तस्य हि स्मृतिः। स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः॥
मूलम्
तस्मात् स्मृतिप्रत्यभिज्ञाप्रामाण्यात् जगतः स्थितिः। न तत्प्रामाण्यसंत्यगी लौकिको नाप्यलौकिकः॥
मूलम्
सहकारिविशेषस्य सन्निधेरप्यसन्निधेः। करणाकरणे स्यातां तौ च कालविभेदतः॥
मूलम्
कालद्वयविरोधस्तु स्वव्यपेक्षानिबन्धनः। अन्यापेक्षौ च तौ पूर्वापरौ संभवतस्सदा॥
टीका
स. सि.[1-26]
मूलम्
अतत्तामनिदंतां च तत्त्वेदंत्वे निरस्यतः। अन्योन्यप्रतिषेधस्तु न ततस्सेद्धुमर्हति॥
मूलम्
एकस्य भिन्नकालाभ्यां वैशिष्ट्यं विहतं यदि। तथा स्याद्भिन्नदेशाभ्यां पुञ्जसिद्धिर्विरुध्यते॥
मूलम्
पूर्वापरबहुव्यक्तिव्याप्तिग्रहणसंभवा। न काचिदपि युक्तिस्स्यात् सर्वक्षणिकवादिनः॥
मूलम्
न वैजात्यं विना तत्स्यात् न तन्मिन्ननुमा भवेत्। विना तेन न तत्सिद्धं नाध्यक्षं निश्चयं विना॥
टीका
न्या. कु.[1 स्त.]