मूलम्
स एवायमिति ज्ञानं प्रत्यभिज्ञेति कीर्त्यते। यः पूर्वमीमासीत्कुम्भादिः सोऽस्तीदानीमपीति हि॥
मूलम्
अतीतकालवानर्थं तद्बुद्धाववभासते। भूतः कालो भूततया विषयीक्रियते तया॥
मूलम्
अतीतस्येन्द्रियज्ञाने कथं विषयतेति चेत्। शास्त्रमाम्नान् बभक्षेति कथमत्र प्रतीयते॥
मूलम्
अतीतैकोनशतकरसालफलगोचरा। यथा तथाऽतीतकालयोगोऽपि प्रतिभासताम्॥
मूलम्
प्रतिभाससमारूढः प्रत्यभिज्ञायते यदा। तदेन्द्रियार्थसंसर्गाच्चैका धीरुपजायताम्॥
मूलम्
अथवा प्रत्यभिज्ञानं गन्धवत्कुन्दबु्द्धिवत्। तच्चैकं मानसं ज्ञानं पूर्वज्ञानविशेषिते॥
मूलम्
अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम्। न, तस्य भिन्नाभिन्नत्ववकल्पानुपपत्तितः॥