मूलम्
सत्त्वादक्षणिकत्वस्य सिद्धेर्हेतुर्विरुध्यते। एवं च सत्त्वं व्यावृत्तं क्षमिकेभ्यो विशेषतः॥
मूलम्
अत एव च कार्याणां युगपन्न समुद्भवः। न चापि कृत्वा करणं सामग्री हि न सर्वदा॥
मूलम्
प्राणिकर्मविपाको॥पि सामग्र्यन्तर्गतो मतः। सर्वत्र सुखदुःखादिहेतोस्समुपपादनात्॥
मूलम्
समर्थत्वासमर्थत्वविकल्पो॥तिप्रसङ्गतः। सामाग्र्या एव सामर्थ्यं ततः कार्यस्य दर्शनात्॥
मूलम्
विनश्वरस्वभावेत यदुक्तं तत्र चिन्त्यताम्। जायमानस्वभावत्वे कृतं जननहेतुभिः॥
मूलम्
नाजायमानभावेऽपि कर्तुं शक्यो नृशृङ्गवत्। तस्मात्स्वभावयोगेऽपि व्यवस्था सहकारिभिः॥