500 कारणत्वानुपपत्तिः

मूलम्

क्षणिकत्वे पदार्थानां कारणत्वं च दुर्ग्रहम्। सर्वथा परनिष्पत्तौ निर्व्यापारो न कारणम्॥

मूलम्

पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये। उत्तरस्यानिमित्तत्वात् उत्पत्तिर्नोपपद्यते॥

मूलम्

अत्यन्तासन्नसौ तस्मिन् न तावद्व्यापृतिक्षमः। स्वयं चाभावदष्टत्वात् कस्मिन् काले करिष्यति॥

मूलम्

नाशोत्पादसमत्वेऽपि नैरपेक्ष्यात्परस्परम्। न कार्यकारणत्वे स्तः तद्व्यापाराननुग्रहात्॥

मूलम्

न ह्यलब्दात्मके वस्तु पराङ्गत्वाय कल्पते। तस्मात्प्राक्कार्यनिष्पत्तेः व्यापारो यत्र दृश्यते॥

टीका

श्लोक.[841]

मूलम्

तदेव कारणं तस्य न त्वानन्तर्यमात्रकम्। सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम्॥