499 सत्त्वानुमाननिरासः

मूलम्

क्षणभङ्गानुमानं च क्षणवादे निरूपितम्। तन्निरासांशसारोऽत्र संक्षिप्य प्रतिपाद्यते॥

टीका

न्या. म.[453]

मूलम्

अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते। तदसत्कूटहेमादौ व्यभिचारावधारणात्॥

मूलम्

किंत्वाबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते। क्वचिच्च कालदेशादिनिबन्धनममपीष्यते॥

मूलम्

अर्थक्रियासमर्थस्य तदुत्थं सत्त्वामस्तु वा। तदपि व्याप्तिशून्यत्वात् न हेतुर्गन्धवत्त्ववत्॥

मूलम्

क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपिहि। क्रमेण युगपद्वापि न कार्यकारणे क्षमः॥

मूलम्

क्षणिकस्य क्रमः कीदृक् युगपत्कारणे पुनः। एकवस्त्वात्मकस्यापि रूपभेदः प्रसज्यते॥

मूलम्

कार्याण्येकेन रूपेण भिन्नानि जनयेत्कथम्। रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत्॥

मूलम्

देशकालविकल्पोऽपि भमस्य भुण्णता भवेत्। स्थिते हि वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते॥