498 प्रत्यभिज्ञापरिशोधः

मूलम्

त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः। गृह्यतां क्षणभङ्गित्वम् परवैराग्यकारणम्॥

टीका

न्या. म.[448]

मूलम्

प्रर्यभिज्ञाप्रमाणेन वस्तूनां स्थैर्यमिष्यते। प्रत्यभिज्ञा नाम केयमिति स्पष्टं निरूप्यताम्॥

मूलम्

स एवायं घट इति ज्ञानमेकमुत द्वयम्। संस्कारमात्रजन्यं यद्विज्ञानं स्मरणं तु तत्॥

मूलम्

इन्द्रियादिप्रमाणोत्थं ज्ञानं त्वनुभवो मतः। प्रत्यभिज्ञा त्विन्द्रियेण जन्यं संस्कारसाह्यतः॥

मूलम्

अयमेकत्वसिद्धन्तः द्वित्वसिद्धान्त उच्यते। ज्ञानद्वयं प्रत्यक्षिज्ञा स्मरणानुभवात्मकम्॥

मूलम्

वक्तव्यं कारणं तत्र यद्येकत्वमुपेयते। स्मृतौ हेतुर्तर्हि संस्कारोऽनुभवे हेतुरिन्द्रियम्॥

टीका

न्या. सू.[3-1-19]

मूलम्

उभाभ्यां च न सम्भूय तज्ज्ञानमुपजन्यते। पृथक्पृथक् स्वकार्ये हि निर्ज्ञातं कौशलं तयोः॥

मूलम्

स्मृतिः स्मर्तव्यविषया ग्रहणं ग्रह्यगोचरम्। न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम्य़॥

मूलम्

यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृतीः। न तुल्यविषये तद्वदेते अपि भविष्यतः॥

मूलम्

यद्वा भवतु नामेदं एकमेव हि वेदनम्। तथापि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम्॥

मूलम्

अतीतकालयुक्तं चेत् स्मरणान्न विशिष्यते। अनागातविशिष्टं चेत् संकल्पप्रायमेव तत्॥

मूलम्

वर्तमानैकनिष्ठं चेत् स्थिरत्वं तर्हि सुस्थिरम्। कालत्रयपरीतं चेत् विरोधात्तत्तु दुर्लभम्॥

मूलम्

परस्परपरित्यागव्यवस्थितनिजात्मनाम्। एकत्र न समावेशः कथंचिदुपपद्यते॥

मूलम्

स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृता। क्षणिकत्वेऽपि कथिता कार्यकरणभावतः॥