मूलम्
चिन्तनीयमिदं चात्र परीक्षकविशोधितम् ।विज्ञानवादसर्वस्वं केवलं सूक्ष्मया दृशा ॥
मूलम्
ज्ञानाकारात्मके लोके बाह्याकारविकल्पना ।अपरस्सोऽपि विज्ञानाकार एवेति निर्णयः ॥
मूलम्
पञ्चभूतात्मके लोके यद्यद्वस्तूपजायते ।तावद्भूतात्मकं सर्वं न च किंचिदभौतिकम् ॥
मूलम्
सौवर्णमेरुसंभूतं नादुर्वर्णं कथं भवेत् ।ज्ञानात्मके प्रपञ्चेऽस्मिन् दुर्लङ्घा ज्ञानवागुरा ॥
मूलम्
इति विज्ञानवादस्य मूलं विज्ञानवासना ।वासना चेत् ज्ञानशक्तिः ज्ञानमेवावशिष्यते ॥
मूलम्
वासना बाह्यशक्तिश्चेत् बाह्यमेवावशिष्यते ।यदि चोभयशक्तिस्स्यादुभयं चैव सिद्ध्यति ॥
मूलम्
आन्तरं बाह्य़मित्येवं व्यवहारो हि वासना ।यथैव वासितो जन्तुः तथैव प्रतिपद्यते ॥
मूलम्
विद्या च पूर्वप्रज्ञा च श्रद्धा संस्कारकर्मणी ।आत्मनो रूपमेतत्स्यात्तथा काममयः पुमान् ॥