मूलम्
क्षणभेदश्च सन्तानभेदो ज्ञानान्तरेण चेत् ।गृहीतश्चागृहीतश्चानिष्टो विज्ञानवादिनः ॥
टीका
स. सि.[420]
मूलम्
ज्ञानान्तरेण ज्ञानेषु गृह्यमाणेष्वसंभवि ।तादात्म्यं तत्र यः पन्थाः सर्वत्रापि स एव नः ॥
मूलम्
यदि त्वनागतातीतज्ञानग्राहिषु चैकता ।अनागतमतीतं वा स्वयं स्यात्किं ग्रहीष्यति ॥
मूलम्
तर्ह्येकक्षणशेषो वा नित्यैका संविदेव वा ।स्वीक्रियेत स्वसिद्धान्तोऽप्यर्थायोगान्न सिद्ध्यति ॥
मूलम्
अथ बोधेन तादात्म्ये नृशृङ्गाद्यपि सद्भवेत् ।किंच बोध्येन तादात्म्ये कुशली मध्यमागमः ॥
मूलम्
मिथो विरुद्धैर्युगपत् ज्ञातैः बुद्धेस्तदात्मता ।कथं स्यात् बोध्यतादात्म्यानुपपत्तिपराहता ॥
मूलम्
अथ बोध्यस्य निथ्यात्वात्तादात्म्यमुपचर्यते ।तदा सहोपलम्भादिहेतवः न हि साधकाः ॥
मूलम्
वादान्ताद्वैतसिद्धान्तेऽप्यभेदो न हि साध्यते ।भेदो व्यासिद्ध्यत इति भाष्यभामत्युदीरितम् ॥
मूलम्
भेदमात्रापह्नवस्तु त्रय्यन्ताद्वैतवादिनाम् ।भिद्यमानापह्नवस्तु स्याद्बाह्याद्वैतवादिनाम् ॥
मूलम्
किंचासद्विषया सर्वा बुद्धिर्यद्युपगम्यते ।ज्ञानमेकं सत्यमिति बुद्धबुद्धिरपीदृशी ॥
मूलम्
तदप्यस्त्विति चेत्सर्वा धीर्मृषेत्यपि धीर्मृषा ।तस्मान्निषेधसिद्धान्तः स्वयमेव विहन्यते ॥