495 विषयभेदः

मूलम्

विषयाणां मिथो भेदो यदि स्याद्बुद्धिभेदतः ।बुद्धिभेदोऽपि विषयभेदादिति कथं भवेत् ॥

मूलम्

बुद्धयो विषयाश्चैव स्वत एव परस्परम् ।भिन्नाः किन्त्वर्थभेदोऽयं बुद्धिभिः ज्ञायते स्वयम् ॥

मूलम्

अतः पर्त्यक्षबुद्धेस्सः कारणं विषयात्मना ।इति स्वीकुर्वते प्राज्ञाः तस्मान्नान्योन्यसंश्रयः ॥

मूलम्

अर्थस्य बुद्धिहेतुत्वमन्वयव्यतिरेकतः ।सिद्ध्यतीत्यत्र विज्ञेया प्रसिद्धोदाहृतिः पुनः ॥

मूलम्

यदाहि देवदत्तार्थी कश्चिद्गच्छति तद्गृहम् ।तत्रासन्निहितं चैनं गत्वाऽपि स न पश्यति ॥

मूलम्

क्षणान्तरे स आायान्तं देवदत्तं निरीक्षते ।तत्र तत्सदसत्त्वेन तथात्वमवगम्यते ॥