मूलम्
परिव्राट्प्रभृतीनां तु कुणपादिप्रतीतयः । अर्थस्यानेकशक्तित्वान्नावहन्त्यर्थशून्यताम् ॥
मूलम्
किं न भक्षयितुं शक्या नारी कौलेयकेन सा । किं वा न शमयत्येषा कामिनो मदनज्वरम् ॥
मूलम्
कुणपात्केन रूपेण योगिनः सा विशिष्यते । धीत्रयं तु न सर्वेषामभावात्सहकारिणः ॥
मूलम्
या प्रतिप्राणि नियता विविधा सहकारिणी । वासना तदपेक्षस्स्यात् आत्मलाभो धिय़ां पुनः ॥
मूलम्
स्वप्रत्ययानुकारोऽपि बह्वाकारेषु वस्तुषु । निर्धारणे भवेद्धेतुः नापूर्वाकारकल्पने ॥
मूलम्
तथैव तदुपेतव्यं यद्यथैवोपलभ्यते ।न चार्थरूपाद्भेदेन धियामस्ति निरूपणम् ॥
मूलम्
तस्माद्देशादिसद्भावनिमित्तैः प्रत्ययैः पृथक् ।वस्त्वाकाराः प्रतीयेरन् उद्भवाभिभवात्मकाः ॥
मूलम्
हेतुश्चेद्वासनाभेदः विविधप्रतिभोद्भवे ।तेनैव सर्वनिर्वाहे किमर्थः परिकल्प्यते ॥
मूलम्
न ह्यर्थः कल्प्यते किन्तु क्लृप्त एवावभासते ।बहुरूपस्य चार्थस्य त्वेकरूपत्वभासने ॥
मूलम्
कल्प्यते कारणं किञ्चिन्नियतं वासनादिकम् ।भवन्मते वासनायाः ज्ञानरूपत्वमिष्यते ॥
मूलम्
न हि स्वच्छे च विज्ञाने किंचित्कालुष्यकारणम् ।अतिरेके तु पर्यायात्सोर्थ एव विनिश्चितः ॥
मूलम्
पदार्थसमसंख्याकाः स्वीकार्या एव वासनाः ।न हि गोवासनाभेदादुदेतुं हस्तिधीरलम् ॥
मूलम्
निरन्वयविनाशाच्च न तदंशोऽनुवर्तते ।यतः कथंद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥
मूलम्
तस्मात् प्रतीतिशरणा पदार्थानां व्यवस्थितिः ।प्रतीतिनिह्नवे सर्वनिह्नवात्स्वार्थनिह्नवः ॥