493 शब्दलिङ्गविचारः

मूलम्

ननु चेकत्र नक्षत्रं तारका तिष्य इत्यपि । विरुद्धलिङ्गसंसर्गः कथं तस्मादुपप्लवः ॥

टीका

श्लोक.[285]

मूलम्

परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥

मूलम्

एकस्यां लिङ्गवचने दाराः इति कथं स्मृते । एकता स्त्रीलिङ्गता च कथं षण्णगरीत्यपि ॥

मूलम्

कथं वा ह्रस्वदीर्घादिव्यवहारो मिथो भवेत् ।तस्माद्विज्ञानभेदेन वासनाभेदहेतुना ॥

मूलम्

विरोधस्सुपरीहार्यः न स्वतन्त्रार्थकल्पना ।अत्रोच्यते शब्दशास्त्रान्नार्थतत्त्वस्य निह्नवः ॥

मूलम्

लिङ्गसंख्याविपर्यासः शब्दसाधुत्वमूलकः ।नार्थं भिनत्ति साधुत्वं समयैकनिबन्धनम् ॥

मूलम्

नार्था संस्पर्शिता चास्य तावता व्यवतिष्ठते ।यथा संकेतितो लोके तथा शक्नोति भाषितुम् ॥

मूलम्

अपि वा वस्तुताद्रूप्यसदसत्त्वानपेक्षया । शब्दप्रयोगसाधुत्वमन्वाख्यायेत केवलम् ॥

मूलम्

संस्त्यानप्रसवस्थानैः यथा पातञजले मते । लिङ्गत्रयस्य सद्भावः सायात्सत्त्वादिगुणात्मनः ॥