मूलम्
अभेदपक्षे सुदृढसहार्थानुपपत्तिः । सहोपलम्भनियमोऽसिद्धः हेतुस्त्वदीरितः ॥
मूलम्
सहधीरेकसामग्रीवेद्यत्वेनेष्यते क्वचित् । तावन्मात्रेण चैकत्वे व्यवहारो विरुध्यते ॥
मूलम्
नीलग्रहणवेलायां ग्राहको नैव गम्यते । ग्राह्यमात्रावभासोऽयमिदं नीलमिति ग्रहः ॥
मूलम्
न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति हि । ग्राह्याकारानुपश्लिष्टः ग्राहकोऽप्यवमृश्यते ॥
टीका
श्लोक.[292]
मूलम्
ग्राह्यग्रहणतादात्म्यं शशशृङ्गाद्यसद्ग्रहे । अस्ति चेद्व्याहतिः नो चेत् व्यभिचारस्सुदुस्तरः ॥
मूलम्
किं च सर्वज्ञसंवित्तौ सर्वाकारानुबन्धतः । सर्वस्वभावता वा स्यान्निस्स्वभावत्वमेव वा ॥
मूलम्
इत्थं विभक्तज्ञानार्थाकारसंवेदनात्कथम् । एकोपलम्भनियमादभेदोक्तिर्न साहसम् ॥