491 साधारण्यानुपपत्तिः

मूलम्

या चोपजनिता यस्मात्कर्मकारकतो मतिः । तादृग्विषयनैयत्यवती सा व्यतिष्ठते ॥

मूलम्

अयं च नियमो वस्तुस्वभावैकनिबन्धनः । समः पर्यनुयोगोऽयं ज्ञानाकारमतेऽपि ते ॥

मूलम्

अन्वयव्यतिरेकाभ्यामर्थः स्याज्जनको धियाम् । अपि प्रवृत्तिर्व्याख्याता ततो नियतगोचरा ॥

मूलम्

नीलपीतादिविषयाः सर्वसाधारणा मताः । तेषां विज्ञानरूपत्वेऽसाधारण्यं प्रसज्यते ॥

मूलम्

नर्तकीभ्रूलताक्षेपः न ह्येकः पारमार्थिकः । परमाणुसमूहात्वादेकत्वं तस्य कल्पितम् ॥

टीका

त. कौ.[11 का.]

मूलम्

साधारण्यस्योपपत्तिऱित्थं या चोपवर्णिता । न्यायवार्तिकतात्पर्यटीकायां सा प्रतीरिता ॥

टीका

न्या. ता.[146]