490 मतिजा़ड्यम्

मूलम्

उपलम्भोऽर्थदृष्टिः स्यात् न तु तद्दृष्टिरिष्यते । अगृहीतं ज्ञानमेव भवेदर्थप्रकाशकम् ॥

मूलम्

किं च प्रदीपवद्धूमवद्वा स्याद्यदि धूमवत् । भवेदर्थानुमेयत्वं तदिदं त्वदसम्मतम् ॥

मूलम्

आकाराद्वयसंवित्तिविरहान्न च दीपवत् । घटं दीपं च पश्यामीत्यस्ति द्वितयवेदनम् ॥

मूलम्

न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः । उट्टाङ्कितोऽसौ दीपादिदृष्टान्तश्चक्षुरादिना ॥

मूलम्

त्रयः प्रकाशकाः दीपधीशब्दाः स्वप्रकाशकाः । इत्ययुक्तं तत्र शब्दः समयग्रहपूर्वकम् ॥

मूलम्

अर्थं प्रकाशयत्यात्मग्रहे श्रोत्रमपेक्षते । दीपोऽपि चक्षुषा ग्राह्यः ग्राहयत्यर्थमञ्जसा ॥

मूलम्

इयान्विशेषः कुम्भादौ चक्षुरालोकमिच्छति । आलोकग्रहणे तेन निरपेक्षमिति स्थितम् ॥

मूलम्

एतावतैव दीपस्य न भवेत्स्वप्रकाशता । सायदन्यथा घटस्यापि बैडालाक्ष्याद्यपेक्षया ॥

मूलम्

तस्मात् ज्ञानं नाम वस्तु परस्यैव प्रकाशकम् । दृश्यते न स्वप्रकाशमिति न्यायविदां मतम् ॥