489 नैयायिकाशयः

मूलम्

अत्रोछ्यते न्यायविदां प्रत्युक्तीनां च सङ्ग्रहः । न ह्यर्थः कल्प्यते किन्तु सन्नेव प्रतिभासते ॥

मूलम्

लघ्वी युक्तिः कल्पनायां न हि क्लृप्ते प्रसर्पति । आकारोऽनतिरिक्तश्चेत्समूहालम्बने धियः ॥

मूलम्

ऐक्यं सेयान्नीलपीतादेरतिरिक्तो न सम्मतः । अपोहरूपं नैल्याद्यमितिचेन्नीलपीतते ॥

मूलम्

समाविशेतां नैकत्र विरोधो वा विलीयते । ग्राहकाद्विच्छिन्न एव ग्राह्याकारोऽवभासते ॥

मूलम्

इदं नीलमिति ह्येव न त्वहं नीलमित्यपि । तदैक्येनावभासोऽस्ति नापि धीः स्वप्रकाशिनी ॥

मूलम्

यदि ज्ञानं स्वप्रकाशं अहं नीलमिति प्रजाः । सर्वा अप्यनुसन्दध्युः न च मुह्यति कश्चन ॥

मूलम्

उपेयनिह्नवश्शक्यः नोपायेनेह कुत्रचित् । रूपप्रकाशकं चक्षुः चक्षुरेव प्राकाशताम् ॥

मूलम्

इत्युक्त्वा न क्वचिद्रूपमपह्नोतुं हि साम्प्रतम् । मूर्तो द्रवश्च कठिनः महान् बाह्योऽवगम्यते ॥

मूलम्

स्वच्छं तद्विपरीतं च ज्ञानं भासकमिष्यते । अतस्तदैक्यवादोऽसौ नाविवादो विदां मतः ॥