488 संवेदनहेतुः

मूलम्

नीलं संवेदनादेव स्वात्मनो न विभिद्यते । संवेद्यते न ह्यनात्मा नीलवित्तौ च पीतवत् ॥

मूलम्

यद्वेद्यते यया बुद्ध्या तत्या न विभिद्यते । यथाऽऽत्मा वेद्यते बुद्ध्या तया नीलादयस्तथा ॥

मूलम्

संयोगात्समवायाद्वाऽप्येकार्थसमवायतः । कार्यकारणभावाद्वा व्याप्तिरव्याप्तिदूषिता ॥

मूलम्

परिशेषात्तु तादात्म्यमास्थेयं सर्ववादिभिः । तस्माद्विज्ञानमेवार्थः कामदोग्ध्री हि वासना ॥