487 ग्राह्यलक्षणयोगः

मूलम्

ग्राह्यलक्षणयोगाच्च ग्राहकान्न विभिद्यते । विधान्तरासंभवेन तादात्म्यं ग्राह्यलक्षणम् ॥

मूलम्

ग्राह्यत्वं यदि हेतुत्वं ग्राह्यं स्याच्चक्षुराद्यपि । आाकारार्पणयोग्यत्वं नीलादौ न हि निश्चितम् ॥

मूलम्

नार्थाकारस्य चारोपः नैव च प्रतिबिम्बनम् । न चापि तस्य निष्पत्तिः नापि संसर्गरूपता ॥

मूलम्

नानन्तरप्रत्ययाख्यवासनायोग एव वा । न मध्यवस्त्वाकारश्च नैवं वादान्तराण्यपि ॥

मूलम्

ग्राह्यत्वं नापि सारूप्यं नापि सान्निध्यलक्षणम् । एकदेशेन सारूप्ये सर्वस्स्यात्सर्ववेदकः ॥

मूलम्

सर्वात्मना तु सारूप्ये ज्ञानमज्ञानतां व्रजेत् । तादात्म्यमेव ग्राह्यत्वं परिशेषाद्व्यवस्थितम् ॥