486 वासनानिर्णयः

मूलम्

वासना नाम ताद्रूप्यं बीजपूरसुमादिवत् । पूर्वमात्मसरूपेण चोत्तरं जनयेत्सदा ॥

टीका

न्या. र.[264]

मूलम्

उत्तरं वास्यत इति पूरवं वासयतीत्यपि । व्यवहारः परं सर्वं सर्वात्मकमिति स्थितम् ॥

मूलम्

अपि सर्वं च विज्ञानं सर्वाकारं तथापि च । कदाचित्कुत्रचित्काचित् वासनार्थक्रियां क्रियात् ॥

मूलम्

यथा परेषां संस्कारः कश्चित्कांचित् स्मृतिं क्रियात् । यथा च शब्दस्सर्वार्थः बोधकोऽर्थस्य कस्यचित् ॥

मूलम्

न संवित्तेस्सत्तयैव युक्ता विषयवेदना । तस्यास्सर्वत्राविशेषादविशेषप्रसङ्गतः ॥

मूलम्

ग्राह्यलक्षणतादात्म्यात्तत्सरूपयितुं क्षमम् । ततश्च ज्ञानवैचित्र्यं समनन्तरसात्कृतम् ॥