485 आकारान्तरनिरासः

मूलम्

अन्योन्यसंसर्गधर्मो नाकार इति साम्प्रतम् । अनर्थजस्मृतिस्वप्नबुद्धिष्वाकारदर्शनात् ॥

मूलम्

ज्ञानं स्वच्छं हि चिन्मात्ररूपं चाप्यविलक्षणम् । तस्य नीलादिभेदस्तु वासनैकनिबन्धनः ॥

मूलम्

अत एव तुरीये तद्वासनोच्छेदसंभवे । सच्चिन्मात्रैकरूपेण विज्ञानमवभासते ॥