मूलम्
तद्योगाचारसिद्धान्तयुक्तयः क्रमशोऽधुना । निरूप्यन्तेऽत्र सङ्गृह्य विप्रकीर्णाः क्वचित्क्वचित् ॥
टीका
न्या. म.[536]
मूलम्
नीलपीतादिवस्तूनां ज्ञानाकारत्वकल्पना । लघ्व्यर्थाकारपक्षे तु न स्वतो भासते ज़डः ॥
मूलम्
तद्ग्राहकाकारता च कल्पनीयेति गौरवम् । बाह्यान्तरकृतो भेदः परमार्थो न हीष्यते ॥
मूलम्
ग्राहकाद्विच्छिन्नता हि मता ग्राह्यस्य बाह्यता । न शरीरापेक्षयाऽतः विच्छेदोऽसिद्ध एव सः ॥
मूलम्
बहिर्वदवभासोऽपि भेदवासनया कृतः । परिच्छेदान्तराद्योऽयं भावो बहिरिव स्थितः ॥
मूलम्
ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः । सहोपलम्भनियमादभेदो नीलतद्धियोः ॥
मूलम्
ज्ञानमेवैवमाकारमात्मना प्रथते यतः । नाप्रत्यक्षस्य तस्यास्ति प्रमाणान्तरतो गतिः ॥
मूलम्
संवेद्यत्वाच्च नीलादेर्ज्ञानाकारत्वनिश्चयः । अर्थान्तरस्य च ग्राह्यलक्षणं न हि युज्यते ॥
मूलम्
ज्ञानं प्रकाशकं लोके ह्यप्रकारस्य वस्तुनः । तस्मात् ज्ञानं ग्रहीतव्यं प्रागर्थादिति निश्चितम् ॥
मूलम्
प्रकाशकोऽप्यविदितो दीपादिर्न प्रकाशकः । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥
मूलम्
अविशेषोऽन्यथा स्वीयपरकीयोपलम्भयोः । निराकारं च विज्ञानं ग्रहीतुं नैव शक्यते ॥
मूलम्
प्रचिकर्मव्यवस्थाऽपि साकारत्वे प्रकल्पते । आकारसहितैवैषा धीः कारकसमुद्भवा ॥
मूलम्
नैवान्याथा स्याद्विषयनियमस्यावधारणा । नार्थैरेव विशेषस्तु निराकारधियां भवेत् ॥
मूलम्
तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मना । भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥
मूलम्
अर्थेन रज्यमानं हि निराकारं निसर्गतः । ज्ञानं न खलु पश्यामः लाक्षया स्फटिकं यथा ॥
मूलम्
इत्थं सत्यपि बाह्य़ेऽर्थे ज्ञानस्याकारकल्पना । भवेदेवेति तत्रैव संतोषेण स्थितिर्वरम् ॥
मूलम्
अर्थाकारो गृहीतश्चेत् ज्ञानेन स्वगतः पुनः । ज्ञानान्तरेण ग्राह्यस्स्यात् तदाकारद्वयग्रहः ॥
मूलम्
एवमेवाभ्युपगमे भवेदेवानवस्थितिः । तद्ग्रहस्यानपेक्षायामाद्यस्यैवाग्रहो वरम् ॥