483 योगाचारपदार्थः

मूलम्

अथ विज्ञानवादस्य सारोपन्यासपूर्वकम् । संगृह्यते प्रतिक्षेपसारो नयविदां मतः ॥

मूलम्

योगस्य लक्षणं त्वेतत् शमधा च विपश्यना । समाधिश्शमधेत्युक्तः सम्यज्ज्ञानं विपश्यना ॥

टीका

भा. भा.[123]

मूलम्

ताभ्यां द्वाभ्यां बलीवर्दसदृशाभ्य़ां य ऊह्यते । स मार्गो योग इत्युक्तः तेनाचरति यः पुनः ॥

मूलम्

स योगाचार इत्युक्त इति भास्करभाषितम् । शमधादिपदं प्रायः पालीभाषेति गम्यते ॥

मूलम्

अविभागोऽपि वित्त्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥

मूलम्

इति योगाचारमतं प्रायः सर्वत्र विश्रुतम् । वैशेषिकमतं चापि यौगामित्येव कीर्त्यते ॥

मूलम्

योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रमिति प्राशस्तभाषितम् ॥

टीका

वै. भाष्यम्.[ ]

मूलम्

तथा च योगाचाराख्याः केचिद्वैशेषिका अपि । प्रथिता इति गम्यन्ते युक्तिमानादिसाम्यतः ॥