482 औपनिषदनिर्णयः

मूलम्

यदि प्रामाणिको योगी पुराणं च श्रुतिः स्मृतिः । तत्र मानं, नानुमानं वर्ततेऽतिप्रसङ्गतः ॥

मूलम्

धर्मादिविषयत्वं तु मनसो यद्विशिष्यते । चक्षुरादेस्तथाभावः नेष्यते केन हेतुना ॥

मूलम्

यथौपनिषदस्त्वीशः नानुमानेन सिद्ध्यति । तथा यगी च शास्त्रेण केवलेन प्रसिद्ध्यतु ॥

मूलम्

कैश्चित्तु चक्षुषाऽनेन ब्रह्मदर्शनमिष्यते । योगजेनाचिन्त्यशक्तिधर्मेण सहकारिणा ॥

मूलम्

दिव्येन चक्षुषा कैश्चित् ब्रह्मदर्शनमिष्यते । शब्दादप्यपरोक्षस्य संभवः कैश्चिदुच्यते ॥

मूलम्

अतीतेऽनागतेऽप्यर्थे सूक्ष्मे व्यवहितेऽपि च । प्रत्यक्षं योगिनामिष्टं कैश्चिन्मुक्तात्मनामपि ॥

मूलम्

वैशद्यातिशयात्कैश्चित् स्मृतेर्दर्शनरूपता । भावनाया महिम्नेष्टा समानाकारता तु सा ॥

मूलम्

जैमिनीयाश्शाबराश्च भाट्टाः प्राभाकरा अपि । सर्वज्ञप्रतिषेद्धारः, सौगता आार्हताः तथा ॥

मूलम्

कापिलाद्य़ा दार्शनिकाः सादिसर्वज्ञवादिनः । यौगास्तार्किकमुख्याश्चानादिसर्वज्ञावादिनः ॥

मूलम्

स्यातामागमसर्वज्ञावनादी च प्रवाहतः । बीजाङ्कुरवदित्युक्तं सादिस्रवज्ञवादिभः ॥

टीका

स. सं.[3 द.]

मूलम्

ज्ञानमेव हि सर्वेषां सिद्धान्तानां समाश्रयः । तत्रापि च विवादश्चेन्नियन्ता जन्तुरत्र कः ॥

मूलम्

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥

टीका

भ. गी.[4-38]