मूलम्
इदं च पद्ययुगलं ज्ञेयं सर्वार्थसिद्धिगम् । फलाफलविचारोऽथ क्रियते सङ्ग्रहादिह ॥
टीका
न्या. म.[108]
मूलम्
जायमाने भावनयाऽप्यनया धर्मदर्शने । चोदनेवेत्येवकारः शिथिलस्त्विति तार्किकाः ॥
मूलम्
मीमांसकास्तु तां दृष्टिं स्मृतिरित्येव जानते । पातञ्जलाः पुनर्योगदृष्टिमन्यां प्रचक्षते ॥
टीका
स. सि.[4-116]
मूलम्
साक्षात्कुर्वन्ति मन्वाद्याः न हि धर्मं स्वरूपतः । किंतु वेदैकवेद्यत्वाकारेणेति विनिर्णयात् ॥
मूलम्
न चोदनालक्षणत्वशास्त्रयोनित्वयोरपि । विरोधो योगिदृष्ट्येति वेदान्ताचार्यनिर्णयः ॥
मूलम्
किमर्थं तर्हि वेदानां वेदान्तानां च यत्नतः । अप्राप्तविषयत्वं यद्भवदीयैस्स्मर्थ्यते ॥
मूलम्
उच्यतेऽत्रातथाप्राप्तौ साक्षादेवाप्रमाणता । तथाप्राप्तौ पुनः प्रेक्षावद्भिरालस्यशालिभिः ॥
मूलम्
मानान्तरमपेक्ष्येत वेदस्य त्याज्यताऽऽपतेत् । फलतोऽप्रामाण्यमेतत् इति सिद्धान्तसङ्ग्रहः ॥