480 तत्र प्रत्युक्तिः

मूलम्

अत्र सर्वज्ञसिद्धान्तवादिनैयायिकादिभिः । प्रत्युक्तं विस्तरेणात्र सारांशस्त्वयमुच्यते ॥

मूलम्

परश्शतपरिक्षोदात्परस्तादपि वादिभिः । उपलम्भबले स्थेयं तदादावेव गृह्यताम् ॥

टीका

न्या. सि.[1 परि.]

मूलम्

वैशेषिकादिभिस्त्वार्षं सिद्धदर्शनमित्यपि । अलौकिकं च विज्ञानं किंचिदङ्गीकृतं यथा ॥

मूलम्

विद्याऽविद्याभेदेन ज्ञानं द्विविधमिष्यते । प्रात्यक्षिकी लैङ्गिकी च स्मृतिश्चाप्यार्षलक्षणा ॥

मूलम्

एवं चतुर्विधा विद्या तथाऽविद्या चतुर्विधा । विपर्ययस्संशयश्च यश्चाप्यालोचनात्मकः ॥

मूलम्

स्यादनध्यवसायस्सः चतुर्थस्स्वप्नलक्षणः । एवं ये ऋषयस्सिद्धाः ते वै सर्वज्ञलक्षणाः ॥

मूलम्

मनः करणकं ज्ञानं भावानाभ्याससंभवम् । भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥

टीका

न्या. म.[105]

मूलम्

यथाऽनुवाकग्रहणे संस्थाऽभ्यसनकल्पितः । स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥

मूलम्

तथैव भावनाभ्यासात् योगिनामपि मानसम् । ज्ञाने सकलविज्ञेयसाक्षाकारे क्षमं भवेत् ॥

मूलम्

अस्मदादेश्च रागादिमलावरणधूसरम् । मनो न लभते ज्ञानप्रकर्षपदवीं पराम् ॥

मूलम्

प्रत्यहं भावनाभ्यासक्षपिताशेषकल्मषम् । योगिनां तु मनश्शुद्धं कमिवार्थं न पश्यति ॥

मूलम्

तदेव क्षीणदोषाणां ध्यानावहितचेतसाम् । निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ॥

मूलम्

अपिचानागतज्ञानं अस्मदादेरपि क्वचित् । प्रमाणं प्रातिभं श्वो मे भ्राताऽऽगन्तेति दृश्यते ॥

मूलम्

नानर्थजं न सन्दिग्धं न बाधाविधुरीकृतम् । न दुष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥

मूलम्

क्वचिद्बाधकयोगश्चेत् अस्तु तस्याप्रमाणता । यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥

मूलम्

काकतालीयमिति चेत् न प्रमाणं प्रदर्शितम् । न वैतत्काकतालीयमिति चाशङ्कितुं क्षमम् ॥

मूलम्

स्वप्रज्ञाने हि संवादोऽदृष्टेन क्वचिदिष्यते । एवं प्रकृष्टादृष्टेन किमसाध्यं भविष्यति ॥

मूलम्

न त्वं वेत्सि मदध्यक्षं त्वदध्यक्षं न वेद्म्यहम् । अन्याध्यक्षं पुनश्चावां नैव जानीवहे उभौ ॥

मूलम्

योगीन्द्रियागोचरत्वं धर्मे वेत्ति कथं भवान् । उभयस्वापरोक्षत्वान्निषेद्धुं न हि शक्यते ॥

मूलम्

त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् । तर्हि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ॥

मूलम्

य एव स्यादसर्वज्ञस्स सर्वज्ञं न बुद्ध्यते । इति तद्बोधबोधार्थी तन्निषेधेऽपि न क्षमः ॥

टीका

स. सि.[3-2]

मूलम्

य एव स्यादसर्वज्ञस्स सर्वज्ञं न बुद्ध्यते । इति ब्रुवाणास्सार्वज्ञ्यं लभन्तां तन्निषेधतः ॥

टीका

स. सि.[3-76]