479 सर्वज्ञनिरासः

मूलम्

अथ बुद्धागमादीनां धर्मप्रामाण्यशङ्कया । सर्व सर्वज्ञविद्वेषि मीमांसकमतं त्विदम् ॥

मूलम्

शाक्यार्हतार्षभेदेन सर्वज्ञास्त्रिविधाश्श्रुताः । स्वसार्वज्ञाय ते सर्वे निरस्ताः श्लोकवार्तिके ॥

मूलम्

सर्वदा चापि परुषाः प्रायेणानृतवादिनः । न च पुंवचनं सर्वं सत्यत्वेनावगम्यते ॥

टीका

तन्त्र.[178]

मूलम्

वागिह श्रूयते यस्मात्प्रायादनृतवादिनी । यथाऽद्यत्वे न विस्रम्भस्तथाऽतीतार्थकल्पने ॥

टीका

श्लोक.[75]

मूलम्

इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते । उपलम्भानुसारेण व्यवस्थासिद्धिरीदृशी ॥

मूलम्

यज्जातीयैः प्रामाणैस्तु यज्जातीयार्थदर्शनम् । भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूत् ॥

मूलम्

यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रौत्रवृत्तिता ॥

मूलम्

येऽपि चातिशया दृष्टाः प्रज्ञामेधाबलैर्नृणाम् । सातोकस्तोकान्करत्वेन न त्वतीन्द्रियदर्शनात् ॥

मूलम्

एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते । नूनं च चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥

मूलम्

सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः । निराकरणवच्छक्या न चासीदिति कल्पना ॥

मूलम्

न चागमेन सर्वज्ञः, तदीयेऽन्योन्यसंश्रयात् । नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् ॥

मूलम्

अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण त्वस्त्येन स कथं प्रचिपाद्यते ॥

मूलम्

सर्वज्ञसदृशं कंचिद्यदि पश्येम संप्रति । उपमानेन सर्वज्ञं जानीमो हि ततः परम् ॥

मूलम्

न चापि स्मृत्यविच्छेदात्सर्वज्ञः परिकल्प्यते । विगानाच्छिन्नमूलत्वात् कैश्चिदेव परिग्रहात् ॥

मूलम्

सर्वज्ञोऽसाविति ह्येव तत्काले तु बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥

मूलम्

कल्पनीयाश्च सर्वज्ञाः भवेयुर्बहवस्तदा । य एव स्यादसर्वज्ञः स सर्वज्ञ न बुद्ध्यते ॥

मूलम्

सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा । तावुभौ यदि सर्वज्ञो मतिभेदः कथं तयोः ॥

टीका

आप. ध. व्या.[1-1-2]

मूलम्

रागादिरहिते बुद्धे निर्व्यपारे व्यवस्थिते । देशनाऽन्यप्रणीतैव स्यादृते प्रत्यवेक्षणात् ॥

मूलम्

सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव । निस्सरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥

मूलम्

एवमाद्युच्यमानं तु श्रद्दधानस्य शोभते । कुड्यादिनिस्सृतत्वाच्च नाश्वासो देशनासु नः ॥

मूलम्

किं नु बद्धप्रणीतास्स्युः किमु कैश्चिद्दुरात्मभिः । अदृश्यैर्विप्रलम्भार्थं पिशाचादिभिरीरिताः ॥

मूलम्

एवमेवार्हतैः ज्ञानमिन्द्रियाद्यनपेक्षिणः । सूक्ष्मातीतादिविषयं जीवस्य परिकल्पितम् ॥

मूलम्

नर्ते तदागमात्सिद्ध्येत् न च तेनागमो विना । दृष्टान्तोऽपि न तस्यान्यः नृषु कश्चित् प्रवर्तते ॥

मूलम्

किं च नादृष्टपूर्वेऽर्थे क्वचिद्भवति भावना । आगमात्तु परिच्छिन्ने धर्मे भावनयापि किम् ॥

मूलम्

अतश्च संप्रदायेऽस्मिन् नैकः पुरुष इष्यते । बहवः परतन्त्रास्स्युः सर्वेऽप्यद्यत्ववन्नराः ॥

टीका

श्लोक.[91]

मूलम्

यथा च लङ्घनाभ्यासोऽवधिं नात्येति कुत्रचित् । एवं च भावनाभ्यासः सावधिस्स्यात्स्वभावतः ॥