मूलम्
सत्यं कालादिभेदस्तु दुर्विवेचोऽस्मदादिभिः ।सन्नप्यसौ व्यवहृतौ नोपयोगीत्युपेक्ष्यते ॥
मूलम्
प्रतिभायाः फलं दृष्टं यदा प्रामाण्यनिश्चयः । तदाऽन्यतः कृतार्थत्वात् प्रेक्ष्यते न परीक्षकैः ॥
मूलम्
पुण्येषु परुषेष्वेषा भयिष्ठं सत्यदर्शिनी । तस्मात्पतञ्जलिः प्राह प्रतिभा चेति तां प्रमाम् ॥
मूलम्
साऽपि प्रागुक्तयोगीन्द्रप्रत्याक्षेऽन्तर्भवत्यसौ । इति तस्मान्न प्रमाणमतिरिक्तं तदिष्यते ॥