477 प्रतिभा प्रमाणान्तरम्

मूलम्

एतच्छ्रुत्वैव कतिचिदायासालसबुद्धयः ।प्रमामान्तरमिच्छन्ति प्रतिभां तन्निशम्यताम् ॥

मूलम्

ननु च प्रतिभा काचित् यथार्था मानमिष्यताम् ।बाह्यार्थनैरपेक्ष्येण बाह्यज्ञानक्षमास्तु सा ॥

मूलम्

विशिष्टकालपुरुषाद्यपेक्षोत्कर्षसंभवा ।इति चेदत्र कथितमभियुक्तैरिदं तु तत् ॥