मूलम्
जन्मौषधितपोयोगजनितास्सिद्धयस्तथा ।प्रातिभाद्वा सर्वमिति सिद्धीराह पतञ्जलिः ॥
टीका
पात.[4-1]
मूलम्
प्रतिभैव प्रसंख्यानं विवेकख्यातिरुच्यते ।तदर्थं संयमस्यानुष्ठाने तत्सिद्धिसूचकम् ॥
मूलम्
उदेति प्रातिभं सूर्योदयात्प्रागरुणो यथा ।तेन तारकसंज्ञेन योगी सर्वं हि पश्यति ॥
मूलम्
योगोत्थशुक्लधर्मानुगृहीताच्चित्तमात्रतः ।दिव्यानिभोगान्विजानाति योगीति मुनयो विदुः ॥