475 नैयायिकमीमांसकभेदः

मूलम्

अगृहीतार्थगन्तृत्वं प्रोक्तुं प्रामाण्यलक्षणे ।स्मृतिर्व्यावृत्तये पूर्वैः दूषितं तत्तु तार्किकैः ॥

मूलम्

न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् ।अपि त्वनर्थजन्यत्वमित्याहुः किल तार्किकाः ॥

मूलम्

शब्दस्यानुपलब्धेऽर्थे प्रामाण्यं प्राह जैमिनिः ।सर्वप्रामाणविषयं तदित्याहुः कुमारिलाः ॥

टीका

न्या. म.[23]

मूलम्

संप्लवन्ते प्रमाणानि प्रमेयमिह भूरिशः ।व्यवतिष्ठन्तेऽपि तथा क्वचित्त्विति बुधा विदुः ॥

टीका

न्या. म.[33]

मूलम्

तस्मात्स्मृतिर्मूलशुद्ध्या प्रमाणमिति निश्चितम् ।मूलान्तर्भावदृष्ट्या तु पृथक्प्रामाण्यनिह्नवः ॥