मूलम्
इति स्मृतीनां प्रामाण्यं विदां वेदविदां मतम् ।अप्रामाण्यं वदन्तो ये तेषां भावोऽयमुच्यते ॥
मूलम्
स्मृतिर्न बाह्यविषया नष्टेऽर्थे स्मृतिदर्शनात् ।तस्मान्न प्रत्यभिज्ञाऽपि प्रामाण्यं लब्धुमर्हति ॥
मूलम्
ततः क्षणिकसिद्धान्तः निर्निरोध इतीतरे ।परे विदुः प्रत्यभिज्ञात्यागिनां लोकबाह्यताम् ॥
मूलम्
शाक्यनिर्ग्रन्थसंसारमोचकानां स्मृतेः पुनः ।अप्रामाण्यप्रतिष्ठायै स्मृतिमन्ये समत्यजन् ॥
टीका
त. कौ.[5 का]
मूलम्
पूर्वमीमांसका एते, तद्वर्त्मैवानुवर्त्यते ।नैयायिकादिभिरपि गतानुगतिकं जगत् ॥