473 अप्रामाण्यस्थापनम्

मूलम्

लोके स्मृत्यैव हि कृताकृतयोः पर्यवेक्षणम् ॥

मूलम्

स्मृत्यैव कवयन्त्यत्र काव्यानि कवयः पुनः ।स्मृत्यैव किल शब्दादिप्रमाणानां प्रवृत्तयः ॥

मूलम्

स्मृत्यैव हि परब्रह्मसाक्षात्कारादिरिष्यते ।व्यवहारस्य सर्वस्य स्मृत्यप्रामाण्यवादिनः ॥

मूलम्

अव्यवस्थाप्रसङ्गेन भवन्त्येवाव्यवस्थिताः ।स्मृतिशक्तिविहीनांस्तु चोन्मत्तानिति जानते ॥

मूलम्

स्मृतिमात्राप्रमाणत्वं म युक्तमिति वीक्ष्यताम् ।एबाधितस्मृतेर्लोके प्रमाणत्वपरिग्रहात् ॥

मूलम्

बुद्धागमादित्यागे च न हेतुः स्मृतिमूलता ।विशुद्धस्मृतिमूलेऽपि मानवादौ प्रसङ्गतः ॥

मूलम्

भ्रान्तिं प्रामातो भिन्दन्तः न चाहुः स्मृतिमानताम् ।स्मृतित्वमेव हि व्यक्तमप्रामाण्यं तु तन्मते ॥

मूलम्

पीतशङ्खभ्रमादौ च न ह्येतदुपपद्यते ।चक्षुषैव हि शङ्खादेः पीतिमादेश्च तत्र धीः ॥

मूलम्

ततश्च प्रतिपत्तौ वा व्यवहारोदयेऽपि वा ।तथाभावान्यथात्वाभ्यां प्रमाभ्रान्तिव्यवस्थितिः ॥

मूलम्

तस्मात्स्मृतिर्नाप्रमाणं बाधानर्हार्थदर्शनात् ।प्रतिभास्मृतिशक्त्यादिशालिनस्स्युः परीक्षकाः ॥

मूलम्

अनुमाने हि गुरवो गृहीतग्राहितां विदुः ।धारावाहिनि चाध्यक्षे तार्किकास्तां विजानते ॥

मूलम्

सर्वज्ञावादिनां तादृक् द्वितीयं योगजं मतम् ।अनित्यमीश्वरज्ञानं तादृशं हीशवादिनाम् ॥

मूलम्

अप्रामाण्यं वदन्तोऽपि स्मृतेर्वैशेषिकादयः ।स्वके शास्त्रे याथात्म्याद्विद्याकोटौ पठन्ति ताम् ॥

मूलम्

तदेकदेशिभिरपि प्रामाण्यं स्वीकृतं ततः ।ऐन्द्रपाणिनिदृष्टानां प्रामाण्यं सर्वसम्मतम् ॥

मूलम्

वागीश्वरादिभिः प्राच्यैरुक्तं मानमनोहरे ।प्रामाण्यमिति हि न्यायपरिशुद्दावुदीरितम् ॥