471 सविशेषात्मानुभवः

मूलम्

सविशेषविदां तत्त्वं प्रसंङ्गात्किञ्चिदुच्यते । आत्मनोऽनुभवो नाम तस्य स्फुरणमुच्यते ॥

मूलम्

स्फुरतः स्फुरणं धर्मः सैव स्याद्भासमानता । व्यवहारानुगुण्यं वा वह्नेरौज्ज्वल्यवत्तु तत् ॥

मूलम्

स नित्य आत्मनो धर्मः न तेन स्याद्विकारिता । तथैव चेश्वरात्माऽपि स्वानुभाव्य इतीष्यते ॥

मूलम्

धर्मभूतं ज्ञानमपि सर्वेषामात्मनां सदा । विषयव्यक्तिवेलायां स्वयमेवावभासते ॥

मूलम्

नित्यमुक्तेश्वराणां तु सर्वदैव विकासि तत् । अनुग्रहेच्छासंकल्पप्रमुखाकारभागपि ॥

मूलम्

न तावता स्वभावस्य विकारश्शङ्क्यते क्वचित् । स्वाभावोपाधिभेदेन गुणदोषव्यवस्थितिः ॥

मूलम्

अनित्यमपि विज्ञानमीश्वरेऽस्तीति केचन । तद्विकारोऽनुग्रहेच्छासंकल्पास्त्विति चाभ्यधुः ॥

मूलम्

औपाधिकागन्तुकेनाकारेणैव विकारिता । सावाभाविको य आकारः धर्मिणो भूषणं तु तत् ॥

मूलम्

तथैव द्वैतसिद्धान्ते धर्मभूतधियः स्थले । स्वरूपमेवाभिषिच्य सर्वमित्थं निरूह्यते ॥