मूलम्
आत्मनोऽनुभवो नाम स्वरूपं निर्विशेषिणाम् । स्वानैव स्वस्य विषयीकरणे विकृतिर्भवेत् ॥
मूलम्
फलव्याप्यत्वमेवास्य शास्त्रकृद्भिः निराकृतम् । ब्रह्मण्यज्ञाननाशार्थं वृत्तिव्याप्यत्वमिष्यते ॥
मूलम्
या चावरणभङ्गावच्छिन्ना वृत्तिः फलं हि सा । तद्द्वयव्याप्यताऽप्यन्यैराचार्यैर्नोपगम्यते ॥
मूलम्
व्यवहारोपपत्तिर्हि सर्वथा निर्विशेषिणाम् । अपेक्षिता ततस्सूक्ष्मचिन्ता विज्ञानचातुरी ॥