मूलम्
ज्ञानाज्ञानेऽपि विषयव्यवहारं विदुः परे । घटोऽयमिति विज्ञाने घटमात्रं हि भासते ॥
मूलम्
अङ्गुल्यग्रं यथाऽऽत्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुपर्हति ॥
मूलम्
इत्याहुरथचात्रैव केचित्स्वायंभुवादयः । न तु चित्तं स्वप्रकाशं न चित्तान्तरसिद्ध्यपि ॥
टीका
पात.[4-19]
मूलम्
सर्वं सवृत्तिकं चित्तं साक्षिवेद्यं सदा स्थितम् । सर्वोपपत्तिरेतस्मिन् सिद्धान्त इति मन्वते ॥
मूलम्
तमेवपक्षं प्रायेण तथौपनिषदा अपि । आश्रित्य निर्वहन्त्यत्र व्यवहारं हि साक्षिणा ॥
मूलम्
व्यवहारो हि जगति भवत्यालम्बने क्वचित् । न तत्सामान्यतो नास्ति कथंता तु परीक्ष्यते ॥
मूलम्
सामान्यतो निश्चिते हि विशेषः स्याद्बुभुत्सितः । कृतकक्षणिकानेकं ज्ञानमात्मेति केचन ॥
मूलम्
नित्यस्थिरैकविज्ञानमात्मानमपरे विदुः । विधाभेदे विवादोऽयं धर्मी तूभयसम्मतः ॥
मूलम्
धर्मधर्म्यैक्यवादे तु विवादोऽनवकाशभाक् । तदर्थमेव तादात्म्यं केचिदिच्छन्ति सूरयः ॥
मूलम्
प्रकाशं विषयत्वं च विभिन्नं ये विदुर्बुधाः । संविदः स्वप्रकाशेऽपि वेद्यतां तां न मन्वते ॥
टीका
स. सि.[4-2]
मूलम्
विषयत्वं प्रकाशं च ये त्वनर्थान्तरं विदुः । संविदन्तरसंवेद्यामप्याहुस्संविदं तु ताम् ॥
मूलम्
अन्यथा गुरुशिष्यादेः सर्वलौकिकसम्मतः । व्यवहारो विलुप्येत प्राज्ञाज्ञाद्यविनिश्चयात् ॥
मूलम्
स्वसत्तयैव प्रकाशमानत्वमनुभूतिता । इति संवित्स्वप्रकाशवादिज्ञानत्वनिर्णय़ः ॥
मूलम्
वर्तमानदशायां स्वसत्तयैवाश्रयं प्रति । प्रकाशमानत्वमनुभूतित्वमिति केचन ॥
मूलम्
सत्तयैव स्वविषयसाधनत्वमितीतरे । परप्रकाशविज्ञानवादिनैयायिकादयः ॥