मूलम्
इदं संवेद्म्यहमिति कर्मकर्तृकरम्बितम् । उपलम्भं समाश्रित्य धीराः तस्य स्वभासताम् ॥
मूलम्
अङ्ग्यकार्षुस्सौगताद्या अपि नातोऽनवस्थितिः । सर्वं ज्ञानाधीनसिद्धिः व्यवहाराय कल्पते ॥
मूलम्
ज्ञानं चापश्यतां सर्वशून्यत्वाद्बिभ्यतां सताम् । गतिः स्वयंप्रकाशत्वादृते नान्योपलभ्यते ॥