466 ज्ञानापलापः

मूलम्

अत्र कश्चित् स्वतन्त्रोऽस्ति सिद्धान्तस्सोऽवधार्यताम् । ज्ञानं नाम पदार्थो यस्स नास्त्येवेति तन्मतम् ॥

मूलम्

ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता । तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना ॥

मूलम्

स एव भूतचैतन्यवादिनः परमाशयः । अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः ॥

मूलम्

अतीन्द्रियजडज्ञानवादिनो ये कुमारिलाः । दुरुद्धरा वागुरेयं तेषामिति परे विदुः ॥