मूलम्
संवादो नाम विज्ञानं जात्यन्तरमितीतरे । गृहीतविषयं शब्दहेतुकं तद्विदुः परे ॥
मूलम्
शाब्दप्रभेद इत्यन्ये प्राहुरेवं धियामिह । विवादा बहवस्सूक्ष्माः विद्वद्भिरुपदर्शिताः ॥
मूलम्
स्मृतिः गृहीतविषया मतिः तात्कालिकी मता । प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः ॥
मूलम्
अनन्तो बुद्धिभेदोऽयमलंकारादिशास्त्रतः । विज्ञेयो ननु बुद्ध्यैव बाह्यान्तरविकल्पना ॥