462 प्रामाण्यसाधनम्

मूलम्

सर्वथा प्रत्यभिज्ञानं प्रमाणं सविकल्पकम् । करणाकारणादिनां कालभेदाद्युपाधितः ॥

मूलम्

अविरोधान्न बीजादौ शक्यते भेदकल्पना । दीपादिष्विव सर्वत्र बाधकादेरसंभवः ॥

मूलम्

अन्यथा देशभेदेन करणाकरणादिभिः । एकं जगति नैव स्यात् इति स्यात् सर्वशून्यता ॥